INTERNATIONAL JOURNAL OF NOVEL RESEARCH AND DEVELOPMENT International Peer Reviewed & Refereed Journals, Open Access Journal ISSN Approved Journal No: 2456-4184 | Impact factor: 8.76 | ESTD Year: 2016
Scholarly open access journals, Peer-reviewed, and Refereed Journals, Impact factor 8.76 (Calculate by google scholar and Semantic Scholar | AI-Powered Research Tool) , Multidisciplinary, Monthly, Indexing in all major database & Metadata, Citation Generator, Digital Object Identifier(DOI)
अधुनाऽद्वैतवादिदिशा प्रपञ्चसत्यत्वनिराकरणं क्रियते। तथाहि - “सन् घट :” इत्यादिप्रत्यक्षेण न तावद्घटादिप्रपञ्चस्य सत्यत्वं सिद्ध्यति। तत्र घटादिगतं सत्त्वं विधिगम्यत्वम् , अर्थक्रियाकारित्वम्, प्रातिभासिकेतरत्वम्, असत्त्वातिरिक्तत्वम्, सत्ताजात्यादिमत्त्वं वा गृहीत्वा प्रपञ्चस्य सत्यत्वसाधनमकिञ्चित्करम्। अन्यत्तु तत्त्वमबाध्यत्वं कुत्र वा केन वा प्रमाणेनाधिगतम् ? यदि ब्रह्मण: “सत्यं ज्ञानम्" इत्यादिश्रुत्या, तर्हि तावता प्रपञ्चस्य ब्रह्मेतरस्य किमायातम् ? “अतोऽन्यदार्तम्” “विद्वान्नामरूपाद्विमुक्तः” इत्यादिश्रुत्या तदतिरिक्तस्यासत्त्वावगमात् तदसत्यत्वमेव श्रुत्याऽवसीयते। ब्रह्मणोऽबाध्यत्वं च सर्वाधिष्ठानत्वात्, तदधिष्ठानस्यान्यस्याभावात् तद्विवर्तत्वात्, तद्बाधकज्ञानाभावाच्च, तत्तु न तद्विपरीतस्य ब्रह्मेतरस्याध्यस्तैकस्वभावस्य, तदधिष्ठानसाक्षात्कारनिवर्त्यैकस्वभावस्य च। सति चैवमबाध्यत्वं यदि स्वाधिष्ठानसाक्षात्कारनिवर्त्यत्वरूपं विवक्ष्यते तर्हि घटादेरपि तदधिष्ठानसाक्षात्कारानिवर्त्यत्वं प्रत्यक्षेण गृह्यत इति वक्तव्यम्। तथा च स्वाधिष्ठानसाक्षात्काराबाध्यत्वं ब्रह्मणः इव घटादेरप्यधिष्ठानाभावे शशशृङ्गादिभ्यो विशेषे कारणाभावात् सत्त्वेनोक्तविधेन जगत: प्रतीतिरनुपपन्ना, इति शशशृङ्गादीनामिव सत्त्वप्रत्यक्षमेवात्र बाधितम्। अपि च सत्तासामान्यादिरूपं पारिभाषिकं सत्त्वं न मिथ्यात्वस्य विरोधीति अन्यैरपि अङ्गीकृतमिति न “सन् घट:” इत्यादिप्रत्यक्षेण घटादेर्मिथ्यात्वस्य बाधोऽपि तु मिथ्यात्वमभिप्रेत्यायं प्रत्यक्षबाध इति वक्तव्यम्। मिथ्यात्वञ्च यदि सदसद्विलक्षणत्वमेव तर्हि सद्रूपब्रह्मतादात्म्येनापि सत्प्रतीत्युपपत्त्या कथं वा सत्त्वासत्त्वोभयाभावलक्षणमिथ्यात्वस्य प्रत्यक्षेण अभावं गृहीतुं शक्यते।
तत्र च घटप्रतीतौ भासमानं सत्त्वं पटादौ च भासमानं सत्त्वमेकरूपतयाऽनुवर्तमानं सद्रुपब्रह्मणोऽनुगमेन वेति स्वीकर्तव्यम् इति ब्रह्मसाधारणं सद्रूपमेव घटादिकमपीति कल्पना न युक्ता, सत्तातादात्म्यमेवात्र भासते इति न सद्रूपता, अवाध्यत्वं वा घटादिगतं ब्रह्म चैकम्। यदि चात्र सत्त्वमसत्त्वाभाव इत्युच्यते तत्रासत्त्वं च यदि सत्त्वाभावरूपं तर्हि सत्त्वासत्त्वयोः परस्परविरहत्वेन तु बाधितमेव। परन्तु क्वचिदुपाधौ सत्त्वेन प्रतीत्यनधिकरणत्वरूपासत्त्वाभावः सत्त्वमसत्त्वं तु बाध्यत्वरूपमिति वेदान्तशास्त्रे प्रतिपादितम्। एवञ्च सति सत्त्वाभावासत्त्वाभावरूपमिथ्यात्वस्य केवलबाध्यत्वरूपत्वाभावात्, उक्तविधसत्त्वाभावस्य क्वचिदुपाधौ सत्त्वेन प्रतीत्यधिकरणत्वस्य शुक्तिरूप्यादिसाधारणस्य मिथ्यात्वाविरोधित्वाच्च न प्रत्यक्षानुमानादीनां विरोधः। विरोधित्वे सति प्राबल्यं हि बाधकत्वे तन्त्रम्।
अपि सत्त्वासत्त्वयो: परस्परविरहरूपत्वेऽपि “सन् घट :” इति प्रत्यक्षं वर्तमान- कालिकमेवाबाधं विषयीकरोति न तु भाविबाधाभावम्, “अन्यथेदं रजतम्” इत्यादावपि सत्वावगाहिना प्रत्यक्षेण भावितदबाधावगाहनासम्भवात् रजतमिथ्यात्वमपि न सिद्ध्येत् स्वतःप्रामाण्यस्योभयत्र प्रतिभानदशायामविशेषात्। वस्तुत: “सन् घट:” इत्यधिष्ठानानुवेधमात्रम्। अत एव “सदेव सोम्येदमितिवद् बाधायामेव सामानाधिकरण्यम्, न तु नीलो घट इतिवत् विशेषणविशेष्यभावे। न हि घटसामान्यस्य नीलद्रव्यमधिष्ठानम्, परिणामित्वात् नीलद्रव्यस्य। तत्र तु कार्यकारणयोः समसत्ताकत्वात् कारणधर्म: कार्येऽपि वर्तत इति युक्तम्, अध्यारोपे तु कारणस्य कार्ये तादात्म्यमात्राध्यासः कार्यविषमसत्ताकत्वं चेति ज्ञेयम्। घटाद्यध्यासस्तु मूलाविद्यावशात् सृष्टिकालीन: पूर्वपूर्वसृष्टिक्रममनुसृत्यैव इति प्रवाहस्यानादित्वान्न अन्योन्याश्रयः।
तस्मान्न प्रत्यक्षेण प्रपञ्चसत्यत्वस्य सिद्धिर्भवितुमर्हति इति। एवञ्चानुमानेनापि प्रपञ्चस्य
Keywords:
अद्वैतवेदान्तदिशा प्रपञ्चसत्यत्वनिराकरणम्
Cite Article:
"अद्वैतवेदान्तदिशा प्रपञ्चसत्यत्वनिराकरणम्", International Journal of Novel Research and Development (www.ijnrd.org), ISSN:2456-4184, Vol.9, Issue 2, page no.a318-a323, February-2024, Available :http://www.ijnrd.org/papers/IJNRD2402036.pdf
Downloads:
000118754
ISSN:
2456-4184 | IMPACT FACTOR: 8.76 Calculated By Google Scholar| ESTD YEAR: 2016
An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 8.76 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator
Facebook Twitter Instagram LinkedIn